प्रोवाचोन्निद्रपद्माक्षं पीतवाससमच्युतम्
ज्ञानं ब्रह्मैकविषयं परमानन्दसिद्धिदम्
किं करिष्यामि योगेश तन्मे वद जगन्मय
उवाच सस्मितं वाक्यमशेषजगतो हितम्
ज्ञानेन भक्तियोगेन पूजनीयो न चान्यथा
प्रवृतिं चापि मे ज्ञात्वा मोक्षार्थोश्वरमर्चयेत्
अद्वैतं भावयात्मानं द्रक्ष्यसे परमेश्वरम्
अन्या च भावना ब्राह्मी विज्ञेया सा गुणातिगा
अशक्तः संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः
समाराधय विश्वेशं ततो मोक्षमवाप्स्यसि
किं कार्यं कारणं कस्त्वं प्रवृत्तिश्चापि का तव
नित्यानन्दं स्वयञ्ज्योतिरक्षरं तमसः परम्
कार्यं जगदथाव्यक्तं कारणं शुद्धमक्षरम्
सर्गस्थित्यन्तकर्तृत्वं प्रवृत्तिर्मम गीयते
ततस्त्वं कर्मयोगेन शाश्वतं सम्यगर्चय
ज्ञानं च कीदृशं दिव्यं भावनात्रयसंस्थितम्
कानि तेषां प्रमाणानि पावनानि व्रतानि च
ब्रूहि मे पुण्डरीकाक्ष यथावदधुनाखिलम्
यथावदखिलं सर्वमवोचं मुनिपुङ्गवाः
अनुगृह्य च तं विप्रं तत्रैवान्तर्हितो ऽभवम्
आराधयामास परं भावपूतः समाहितः
संन्यस्य सर्वकर्माणि परं वैराग्यमाश्रितः
संप्राप्य भावनामन्त्यां ब्राह्मीमक्षरपूर्विकाम्
यं विनिद्रा जितश्वासाः काङ्क्षन्ते मोक्षकाङ्क्षिणः
आकाशेनैव विप्रेन्द्रो योगैश्वर्यप्रभावतः
दृष्ट्वान्ये पथि योगीन्द्रं सिद्धा ब्रह्मर्षयो ययुः
स्थानं तद्योगिभिर्जुष्टं यत्रास्ते परमः पुमान्
विवेश चान्तर्भवनं देवानां च दुरासदम्
अनादिनिधनं देवं देवदेवं पितामहम्
तन्मध्ये पुरुषं पूर्वमपश्यत् परमं पदम्