शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा
अनादिरव्यया शुद्धा देवात्मा सर्वगाचला
महामाहेश्वरी सत्या महादेवी निरञ्जना
नन्दा सर्वात्मिका विद्या ज्योतीरूपामृताक्षरा
व्योममूर्तिर्व्योमलया व्योमाधाराच्युतामरा
क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी
आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी
संसारयोनिः सकला सर्वशक्तिसमुद्भवा
प्राणशक्तिः प्रणविद्या योगिनी परमा कला
अनाद्यनन्तविभवा परार्था पुरुषारणिः
शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा
पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता
क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता
महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा
अकार्या कार्यजननी नित्यं प्रसवधर्मिणी
ब्रह्मगर्भा चतुर्विशा पद्मनाभाच्युतात्मिका
सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता
महीयसी ब्रह्मयोनिर्महालक्ष्मीसमुद्भावा
सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका
अनेकाकारसंस्थाना कालत्रयविवर्जिता
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया
अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा
भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका
सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा
ईश्वरार्धासनगता महेश्वरपतिव्रता
पार्वती हिमवत्पुत्री परमानन्ददायिनी
सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता