स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम्
ज्वालामालासहस्त्राढ्यं कालानलशतोपमम्
त्रिशूलवरहस्तं च घोररूपं भयानकम्
चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम्
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्
अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम्
ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम्
सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम्
भयेन च समाविष्टः स राजा हृष्टमानसः
नाम्नामष्टसहस्त्रेण तुष्टाव परमेश्वरीम्
शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा
अनादिरव्यया शुद्धा देवात्मा सर्वगाचला
महामाहेश्वरी सत्या महादेवी निरञ्जना
नन्दा सर्वात्मिका विद्या ज्योतीरूपामृताक्षरा
व्योममूर्तिर्व्योमलया व्योमाधाराच्युतामरा
क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी
आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी
संसारयोनिः सकला सर्वशक्तिसमुद्भवा
प्राणशक्तिः प्रणविद्या योगिनी परमा कला
अनाद्यनन्तविभवा परार्था पुरुषारणिः
शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा
पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता
क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता
महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा
अकार्या कार्यजननी नित्यं प्रसवधर्मिणी
ब्रह्मगर्भा चतुर्विशा पद्मनाभाच्युतात्मिका
सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता