ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम्
माययैवाथ विप्रेन्द्राः सा चानादिरनन्तया
मायावी सर्वशक्तीशः कालः कालकारः प्रभुः
कालः स्थापयते विश्वं कालाधीनमिदं जगत्
अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः
एका सर्वगतानन्ता केवला निष्कला शिवा
शक्तयः शक्तिमन्तो ऽन्ये सर्वशक्तिसमुद्भवाः
अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः
विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः
प्रोच्यते भगवान् भोक्ता कपर्दे नीललोहितः
प्रोच्यते मतिरीशानी मन्तव्या च विचारतः
प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः
सर्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम्
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम्
अनन्तप्रकृतौ लीनं देव्यास्तत् परमं पदम्
आत्मोपलब्धिविषयं देव्यास्तत् परमं पदम्
संसारतापानखिलान् निहन्तीश्वरसंश्रया
आश्रयेत् सर्वभावानामात्मभूतां शिवात्मिकाम्
सभार्यः शरं यातः पार्वतीं परमेश्वरीम्
मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम्
हिताय सर्वभूतानां जाता च तपसावयोः
कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम्
निर्गुणां सगुणां साक्षात् सदसद्व्यक्तिवर्जिताम्
भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम्
न जाने त्वामहं वत्से यथावद् ब्रूहि पृच्छते
व्याजहार महाशैलं योगिनामभयप्रदा
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः
शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम्