अधिष्ठानवशात् तस्याः शृणुध्वं मुनिपुङ्गवाः
चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः
चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः
तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना
प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः
स कालो ऽग्निर्हरो रुद्रो गीयते वेदवादिभिः
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे
कालेनान्यानि तत्त्वानि समाविष्टानि योगिना
तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः
वैश्वरूप्यं महेशस्य सर्वदा संप्रकाशयेत्
ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम्
माययैवाथ विप्रेन्द्राः सा चानादिरनन्तया
मायावी सर्वशक्तीशः कालः कालकारः प्रभुः
कालः स्थापयते विश्वं कालाधीनमिदं जगत्
अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः
एका सर्वगतानन्ता केवला निष्कला शिवा
शक्तयः शक्तिमन्तो ऽन्ये सर्वशक्तिसमुद्भवाः
अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः
विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः
प्रोच्यते भगवान् भोक्ता कपर्दे नीललोहितः
प्रोच्यते मतिरीशानी मन्तव्या च विचारतः
प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः
सर्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम्
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम्
अनन्तप्रकृतौ लीनं देव्यास्तत् परमं पदम्
आत्मोपलब्धिविषयं देव्यास्तत् परमं पदम्
संसारतापानखिलान् निहन्तीश्वरसंश्रया
आश्रयेत् सर्वभावानामात्मभूतां शिवात्मिकाम्
सभार्यः शरं यातः पार्वतीं परमेश्वरीम्