बिभेद बहुधा देवः स्वरूपैरसितैः सितैः
लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शाङ्करी
महादेवनियोगेन पितामहमुपस्थिता
सापि तस्य नियोगेन प्रादुरासीत् प्रजापतेः
दक्षाद् रुद्रो ऽपि जग्राह स्वकीयामेव शूलभृत्
मेनायामभवत् पुत्री तदा हिमवतः सती
हिताय सर्वदेवानां त्रिलोकस्यात्मनो ऽपि च
शिवा सती हैमवती सुरासुरनमस्कृता
विन्दन्ति मुनयो वेत्ति शङ्करो वा स्वयं हरिः
ब्रह्मणः पद्मयोनित्वं शङ्करस्यामितौजसः
विष्णुना पुनरेवैनं प्रणता हरिम्
शिवा सती हैमवती यथावद् ब्रूहि पृच्छताम्
प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम्
रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः
संसारार्णवमग्नानां जन्तूनामेकमोचनम्
व्योमसंज्ञा परा काष्ठा सेयं हैमवती मता
एकानेकविभागस्था ज्ञानरूपातिलालसा
स्वाभाविकी च तन्मूला प्रभा भानोरिवामला
परावरेण रूपेण क्रीडते तस्य सन्निधौ
न कार्यं नापि करणमीश्वरस्येति सूरयः
अधिष्ठानवशात् तस्याः शृणुध्वं मुनिपुङ्गवाः
चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः
चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः
तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना
प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः
स कालो ऽग्निर्हरो रुद्रो गीयते वेदवादिभिः
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे
कालेनान्यानि तत्त्वानि समाविष्टानि योगिना
तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः
वैश्वरूप्यं महेशस्य सर्वदा संप्रकाशयेत्