सहैव मानसैः पुत्रैः क्षणादन्तरधीयत
नारायणाख्यो भगवान् यथापूर्वं प्रिजापतिः
दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया
सर्वे ते ब्रह्मणा तुल्याः साधका ब्रह्मवादिनः
स्थानाभिमानिनः सर्वान् यथा ते कथितं पुरा
सहैव मानसैः पुत्रैस्तताप परमं तपः
त्रिशूलपाणिरीशानः प्रदुरासीत् त्रिलोचनः
विभजात्मानमित्युक्त्वा ब्रह्मा चान्तर्दधे भयात्
बिभेद पुरुषत्वं च दशधा चैकधा पुनः
कपालोशादयो विप्रा देवकार्ये नियोजिताः
बिभेद बहुधा देवः स्वरूपैरसितैः सितैः
लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शाङ्करी
महादेवनियोगेन पितामहमुपस्थिता
सापि तस्य नियोगेन प्रादुरासीत् प्रजापतेः
दक्षाद् रुद्रो ऽपि जग्राह स्वकीयामेव शूलभृत्
मेनायामभवत् पुत्री तदा हिमवतः सती
हिताय सर्वदेवानां त्रिलोकस्यात्मनो ऽपि च
शिवा सती हैमवती सुरासुरनमस्कृता
विन्दन्ति मुनयो वेत्ति शङ्करो वा स्वयं हरिः
ब्रह्मणः पद्मयोनित्वं शङ्करस्यामितौजसः
विष्णुना पुनरेवैनं प्रणता हरिम्
शिवा सती हैमवती यथावद् ब्रूहि पृच्छताम्
प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम्
रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः
संसारार्णवमग्नानां जन्तूनामेकमोचनम्
व्योमसंज्ञा परा काष्ठा सेयं हैमवती मता
एकानेकविभागस्था ज्ञानरूपातिलालसा
स्वाभाविकी च तन्मूला प्रभा भानोरिवामला
परावरेण रूपेण क्रीडते तस्य सन्निधौ
न कार्यं नापि करणमीश्वरस्येति सूरयः