कृतं मया तत् सकलं सृजस्व विविधं जगत्
सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः
ममैव दक्षिणादङ्गाद् वामाङ्गात् पुरुषोत्तमः
संबभूवाथ रुद्रो ऽसावहं तस्यापरा तनुः
विभज्यात्मानमेको ऽपि स्वेच्छया शङ्करः स्थितः
निरूपः केवलः स्वच्छो महादेवः स्वभावतः
माहेश्वरी त्रिनयना योगिनां शान्तिदा सदा
शाश्वतैश्वर्यविज्ञानतेजोयोगसमन्विताम्
कालो भूत्वा न तमसा मामन्यो ऽभिभविष्यति
तदा तदा मे सान्निध्यं भविष्यति तवानघ
सहैव मानसैः पुत्रैः क्षणादन्तरधीयत
नारायणाख्यो भगवान् यथापूर्वं प्रिजापतिः
दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया
सर्वे ते ब्रह्मणा तुल्याः साधका ब्रह्मवादिनः
स्थानाभिमानिनः सर्वान् यथा ते कथितं पुरा
सहैव मानसैः पुत्रैस्तताप परमं तपः
त्रिशूलपाणिरीशानः प्रदुरासीत् त्रिलोचनः
विभजात्मानमित्युक्त्वा ब्रह्मा चान्तर्दधे भयात्
बिभेद पुरुषत्वं च दशधा चैकधा पुनः
कपालोशादयो विप्रा देवकार्ये नियोजिताः
बिभेद बहुधा देवः स्वरूपैरसितैः सितैः
लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शाङ्करी
महादेवनियोगेन पितामहमुपस्थिता
सापि तस्य नियोगेन प्रादुरासीत् प्रजापतेः
दक्षाद् रुद्रो ऽपि जग्राह स्वकीयामेव शूलभृत्
मेनायामभवत् पुत्री तदा हिमवतः सती
हिताय सर्वदेवानां त्रिलोकस्यात्मनो ऽपि च
शिवा सती हैमवती सुरासुरनमस्कृता
विन्दन्ति मुनयो वेत्ति शङ्करो वा स्वयं हरिः
ब्रह्मणः पद्मयोनित्वं शङ्करस्यामितौजसः