प्रधानपुरुषेशाय योगाधिपतये नमः
नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः
ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने
वेदान्तसारसाराय नमो वेदात्ममूर्तये
प्रहीणशोकैर्विविधैर्भूतैः वरिवृताय ते
त्रियम्बकाय देवाय नमस्ते परमेष्ठिने
अनादिमलहीनाय ज्ञानगम्याय ते नमः
नमो धर्माधिगम्याय योगगम्याय ते नमः
ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने
त्वया संह्रियते विश्वं प्रधानाद्यं जगन्मय
परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः
त्वमेव पुरुषो ऽनन्तः प्रधानं प्रकृतिस्तथा
यस्य रूपं नमस्यामि भवन्तं ब्रह्मसंज्ञितम्
आकाशमुदरं तस्मै विराजे प्रणमाम्यहम्
ब्रह्मतेजोमयं नित्यं तस्मै सूर्यात्मने नमः
कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः
पीयते देवतासङ्घैस्तस्मै सोमात्मने नमः
शक्तिर्माहेश्चरी तुभ्यं तस्मै वाय्वात्मने नमः
स्वात्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः
स्वात्मानुभूतियोगेन तस्मै विश्वात्मने नमः
ब्रह्माण्डं यो ऽखिलाधारस्तस्मै शेषात्मने नमः
नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः
तं सर्वसाक्षिणं देवं नमस्ये भवतस्तनुम्
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः
अपारतरपर्यन्तां तस्मै विद्यात्मने नमः
प्रपद्ये तत् परं तत्त्वं तद्रूपं परमेश्वरम्
प्रपद्ये परमात्मानं भवन्तं परमेश्वरम्
प्राञ्जलिः प्रणतस्तस्थौ गृणन् ब्रह्म सनातनम्
ऐश्वर्यं ब्रह्मसद्भावं वैराग्यं च ददौ हरः
व्याजहरा स्वयं देवः सो ऽनुगृह्य पितामहम्