प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत्
ज्ञातुं हि शक्यते देवि ब्रूहि मे परमेश्वरि
साक्षान्नारायणो ज्ञानं दास्यतीत्याह तं मुनिम्
स्मृत्वा परात्परं विष्णुं तत्रैवान्तरधीयत
आराधयद्धृषीकेशं प्रणतार्तिप्रभञ्जनम्
प्रादुरासीन्महायोगी पीतवासा जगन्मयः
जानुभ्यामवनिं गत्वा तुष्टाव गरुडध्वजम्
कुष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः
सर्गस्थितिविनाशानां हेतवे ऽनन्तशक्ये
पुरुषाय नमस्तुभ्यं विश्वरूपाय ते नमः
आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः
भेदाभेदविहीनाय नमो ऽस्त्वानन्दरूपिणे
अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः
नमस्ते परमेशाय ब्रह्मणे परमात्मने
नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने
त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम
सर्वस्याधारमव्यक्तमनन्तं तमसः परम्
प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम्
उभाभ्यामथ हस्ताभ्यां पस्पर्श प्रहसन्निव
यथावत् परमं तत्त्वं ज्ञातवांस्तत्प्रसादतः
प्रोवाचोन्निद्रपद्माक्षं पीतवाससमच्युतम्
ज्ञानं ब्रह्मैकविषयं परमानन्दसिद्धिदम्
किं करिष्यामि योगेश तन्मे वद जगन्मय
उवाच सस्मितं वाक्यमशेषजगतो हितम्
ज्ञानेन भक्तियोगेन पूजनीयो न चान्यथा
प्रवृतिं चापि मे ज्ञात्वा मोक्षार्थोश्वरमर्चयेत्
अद्वैतं भावयात्मानं द्रक्ष्यसे परमेश्वरम्
अन्या च भावना ब्राह्मी विज्ञेया सा गुणातिगा
अशक्तः संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः
समाराधय विश्वेशं ततो मोक्षमवाप्स्यसि