वीतरागांश्च सर्वज्ञान् कोटिकोटिशतान् प्रभुः
जरामरणनिर्मुक्तान् व्याजहरा हरं गुरुः
अन्याः सृजस्व भूतेश जन्ममृत्युसमन्विताः
नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः
स्थाणुत्वं तेन तस्यासीद् देवदेवस्य शूलिनः
स्त्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च
स एव शङ्करः साक्षात् पिनाकी परमेश्वरः
सहैव मानसैः पुत्रैः प्रीतिविस्फारिलोचनः
तुष्टाव जगतामेकं कृत्वा शिरसि चाञ्जलिम्
नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे
प्रधानपुरुषेशाय योगाधिपतये नमः
नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः
ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने
वेदान्तसारसाराय नमो वेदात्ममूर्तये
प्रहीणशोकैर्विविधैर्भूतैः वरिवृताय ते
त्रियम्बकाय देवाय नमस्ते परमेष्ठिने
अनादिमलहीनाय ज्ञानगम्याय ते नमः
नमो धर्माधिगम्याय योगगम्याय ते नमः
ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने
त्वया संह्रियते विश्वं प्रधानाद्यं जगन्मय
परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः
त्वमेव पुरुषो ऽनन्तः प्रधानं प्रकृतिस्तथा
यस्य रूपं नमस्यामि भवन्तं ब्रह्मसंज्ञितम्
आकाशमुदरं तस्मै विराजे प्रणमाम्यहम्
ब्रह्मतेजोमयं नित्यं तस्मै सूर्यात्मने नमः
कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः
पीयते देवतासङ्घैस्तस्मै सोमात्मने नमः
शक्तिर्माहेश्चरी तुभ्यं तस्मै वाय्वात्मने नमः
स्वात्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः
स्वात्मानुभूतियोगेन तस्मै विश्वात्मने नमः