स प्रेत्य गत्वा निरयान् शुनां योनिं व्रजत्यधः
अध्येतव्यमिदं शास्त्रं कृष्णद्वैपायनं तथा
पाराशर्यस्य विप्रर्षेर्व्यासस्य च महात्मनः
गौतमाय ददौ पूर्वं तस्माच्चैव पराशरः
मुनिभ्यः कथयामास धर्मकामार्थमोक्षदम्
सनत्कुमाराय तथा सर्वपापप्रणाशनम्
अवाप्तवान् पञ्चशिखो देवलादिदमुत्तमम्
लेभे पुराणं परमं व्यासः सर्वार्थसंचयम्
ऊचिवान् वै भवद्भिश्च दातव्यं धार्मिके जने
पाराशर्याय शान्ताय नमो नारायणात्मने
नमस्तस्मै सुरेशाय विष्णवे कूर्मरूपिणे