स्थानानि चैषामष्टानां ददौ लोकपितामहः
भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै
दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्तयः
तेषामष्टतनुर्देवो ददाति परमं पदम्
स्वाहा दिशश्च दीक्षा च रोहिणी चेति पत्नयः
स्कन्दः सर्गो ऽथ सन्तानो बुधश्चैषां सुताः स्मृताः
प्रजाधर्मं च काम च त्यक्त्वा वैराग्यमाश्रितः
पीत्वा तदक्षरं ब्रह्म शाश्वतं परमामृतम्
स्वात्मना सदृशान् रुद्रान् ससर्ज मनसा शिवः
त्रिशूलहस्तानृष्टिघ्नान् महानन्दांस्त्रिलोचनान्
वीतरागांश्च सर्वज्ञान् कोटिकोटिशतान् प्रभुः
जरामरणनिर्मुक्तान् व्याजहरा हरं गुरुः
अन्याः सृजस्व भूतेश जन्ममृत्युसमन्विताः
नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः
स्थाणुत्वं तेन तस्यासीद् देवदेवस्य शूलिनः
स्त्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च
स एव शङ्करः साक्षात् पिनाकी परमेश्वरः
सहैव मानसैः पुत्रैः प्रीतिविस्फारिलोचनः
तुष्टाव जगतामेकं कृत्वा शिरसि चाञ्जलिम्
नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे
प्रधानपुरुषेशाय योगाधिपतये नमः
नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः
ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने
वेदान्तसारसाराय नमो वेदात्ममूर्तये
प्रहीणशोकैर्विविधैर्भूतैः वरिवृताय ते
त्रियम्बकाय देवाय नमस्ते परमेष्ठिने
अनादिमलहीनाय ज्ञानगम्याय ते नमः
नमो धर्माधिगम्याय योगगम्याय ते नमः
ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने
त्वया संह्रियते विश्वं प्रधानाद्यं जगन्मय