फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः
कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः
द्वीपानां प्रविभागश्च श्वेतद्वीपोपवर्णनम्
मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च
अवेदस्य च वेदानां कथनं मुनिपुङ्गवाः
गीताश्च विविधागुह्या ईश्वरस्याथ कीर्तिताः
कपालित्वं च रुद्रस्य भिक्षाचरणमेव च
तथा मङ्कणकस्याथ निग्रहः कीर्त्यते द्विजाः
देवदारुवने शंभोः प्रवेशो माधवस्य च
वरदानं च देवस्य नन्दिने तु प्रकीर्तितम्
प्राकृतः प्रलयश्चोर्ध्वं सबीजो योग एव च
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
संत्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह
प्रणम्य पुरुषं विष्णुं गृहीत्वा ह्यमृतं द्विजाः
साक्षाद् देवादिदेनेन विष्णुना विश्वयोनिना
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
विप्राय वेदविदुषे तस्य पुण्यं निबोधत
भुक्त्वा च विपुलान्स्वर्गे भोगान्दिव्यान्सुशोभनान्
पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात्
योर्ऽथं विचारयेत् सम्यक् स प्राप्नोति परं पदम्
श्रोतव्यं च द्विजश्रेष्ठा महापातकनाशनम्
एकत्र चेदं परममेतदेवातिरिच्यते
इदं पुराणं मुक्त्वैकं नास्त्यन्यत् साधनं परम्
कथ्यते हि यथा विष्णुर्न तथान्येषु सुव्रताः
अत्र तत् परमं ब्रह्म कीर्त्यते हि यथार्थतः
ज्ञानानां परमं ज्ञानं व्रतानां परमं व्रतम्
यो ऽधीते स तु मोहात्मा स याति नरकान् बहून्
यज्ञान्ते तु विशेषेण सर्वदोषविशोधनम्
श्रोतव्यं चाथ मन्तव्यं वेदार्थपरिबृंहणम्
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात्