नारादागमनं चैव यात्रा चैव गरुत्मतः
नैत्यकं वासुदेवस्य शिवलिङ्गार्चनं तथा
लिङ्गार्चननिमित्तं च लिङ्गस्यापि सलिङ्गिनः
ब्रह्मविष्णोस्तथा मध्ये कीर्तितो मुनिपुङ्गवाः
संस्तवो देवदेवस्य प्रसादः परमेष्ठिनः
कीर्तिता चानिरुद्धस्य समुत्पत्तिर्द्विजोत्तमाः
अनुवशासितं च कृष्णेन वरदानं महात्मनः
कृष्णद्वैपायनस्योक्ता युगधर्माः सनातनाः
पाराशर्यस्य च मुनेर्व्यासस्याद्भुतकर्मणः
उद्वासनं च कथितं वरदानं तथैव च
फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः
कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः
द्वीपानां प्रविभागश्च श्वेतद्वीपोपवर्णनम्
मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च
अवेदस्य च वेदानां कथनं मुनिपुङ्गवाः
गीताश्च विविधागुह्या ईश्वरस्याथ कीर्तिताः
कपालित्वं च रुद्रस्य भिक्षाचरणमेव च
तथा मङ्कणकस्याथ निग्रहः कीर्त्यते द्विजाः
देवदारुवने शंभोः प्रवेशो माधवस्य च
वरदानं च देवस्य नन्दिने तु प्रकीर्तितम्
प्राकृतः प्रलयश्चोर्ध्वं सबीजो योग एव च
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
संत्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह
प्रणम्य पुरुषं विष्णुं गृहीत्वा ह्यमृतं द्विजाः
साक्षाद् देवादिदेनेन विष्णुना विश्वयोनिना
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
विप्राय वेदविदुषे तस्य पुण्यं निबोधत
भुक्त्वा च विपुलान्स्वर्गे भोगान्दिव्यान्सुशोभनान्
पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात्
योर्ऽथं विचारयेत् सम्यक् स प्राप्नोति परं पदम्