कौर्मं पुराणमखिलं यज्जगाद गदाधरः
मोहायाशेषभूतानां वासुदेवेन योजनम्
धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम्
एकत्वं च पृथक्त्वं च विशेषश्चोपवर्णितः
वर्णाश्रमाणां कथितं यथावदिह लक्षणम्
हिरण्यगर्भसर्गश्च कीर्तितो मुनिपुङ्गवाः
ब्रह्मणः शयनं चाप्सु नामनिर्वचनं तथा
मुख्यादिसर्गकथनं मुनिसर्गस्तथापरः
धर्मस्य च प्रजासर्गस्तामसात् पूर्वमेव तु
पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः
दिव्यदृष्टिप्रदानं च ब्रह्मणः परमेष्ठिनः
प्रसादो गिरिशस्याथ वरदानं तथैव च
वरदानं तथापूर्वमन्तर्धानं पिनाकिनः
अवतारो ऽथ देवस्य ब्रह्मणो नाभिपङ्कजात्
विमोहो ब्रह्मणश्चाथ संज्ञालाभो हरेस्ततः
प्रादुर्भावो महेशस्य ललाटात् कथितस्ततः
भूतिश्च देवदेवस्य वरदानोपदेशकौ
दर्शनं देवदेवस्य नरनारीशरीरता
देव्यास्तु पश्चात् कथितं दक्षपुत्रीत्वमेव च
दर्शनं दिव्यरूपस्य वैश्वरूपस्य दर्शनम्
उपदेशो महादेव्या वरदानं तथैव च
प्राचेतसत्वं दक्षस्य दक्षयज्ञविमर्दनम्
ततश्च शापः कथितो मुनीनां मुनिपुङ्गवाः
पितामहस्योपदेशः कीर्त्यते रक्षणाय तु
हिरण्यकशिपोर्नाशो हिरण्याक्षवधस्तथा
निग्रहश्चान्धकस्याथ गाणपत्यमनुत्तमम्
बाणस्य निग्रहश्चाथ प्रसादस्तस्य शूलिनः
वसुदेवात् ततो विष्णोरुत्पत्तिः स्वेच्छया हरेः
वरलाभो महादेवं दृष्ट्वा साम्बं त्रिलोचनम्
ततश्च कथ्यते भीतिर्द्वारिवत्या निवासिनाम्