पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे
धर्मज्ञानाधिगम्याय निष्कलाय नमो नमः
परावराणां प्रभवे वेदवेद्याय ते नमः
नमो नमो नमस्तुभ्यं मायिने वेधसे नमः
वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः
स्वर्गापवर्गदात्रे च नमो ऽप्रतिहतात्मने
देवानां पतये तुभ्यं देवार्तिशमनाय ते
अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते
सर्गश्च प्रतिसर्गश्च ब्रह्माण्यस्यास्य विस्तरः
त्रातुमर्हस्यनन्तात्मंस्त्वमेव शरणं गतिः
कौर्मं पुराणमखिलं यज्जगाद गदाधरः
मोहायाशेषभूतानां वासुदेवेन योजनम्
धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम्
एकत्वं च पृथक्त्वं च विशेषश्चोपवर्णितः
वर्णाश्रमाणां कथितं यथावदिह लक्षणम्
हिरण्यगर्भसर्गश्च कीर्तितो मुनिपुङ्गवाः
ब्रह्मणः शयनं चाप्सु नामनिर्वचनं तथा
मुख्यादिसर्गकथनं मुनिसर्गस्तथापरः
धर्मस्य च प्रजासर्गस्तामसात् पूर्वमेव तु
पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः
दिव्यदृष्टिप्रदानं च ब्रह्मणः परमेष्ठिनः
प्रसादो गिरिशस्याथ वरदानं तथैव च
वरदानं तथापूर्वमन्तर्धानं पिनाकिनः
अवतारो ऽथ देवस्य ब्रह्मणो नाभिपङ्कजात्
विमोहो ब्रह्मणश्चाथ संज्ञालाभो हरेस्ततः
प्रादुर्भावो महेशस्य ललाटात् कथितस्ततः
भूतिश्च देवदेवस्य वरदानोपदेशकौ
दर्शनं देवदेवस्य नरनारीशरीरता
देव्यास्तु पश्चात् कथितं दक्षपुत्रीत्वमेव च
दर्शनं दिव्यरूपस्य वैश्वरूपस्य दर्शनम्