शक्तयो ब्रह्मविण्वीशा भुक्तिमुक्तिफलप्रदाः
एकमेवाक्षरं तत्त्वं पुंप्रधानेश्वरात्मकम्
इज्यन्ते विविधैर्यज्ञैः शक्रादित्यादयो ऽमराः
कथ्यन्ते चैव माहात्म्याच्छक्तिरेकैव निर्गुणाः
करोति देहान् विविधान् ग्रसते चैव लीलया
सर्वकामप्रदो रुद्र इत्येषा वैदिकी श्रुतिः
प्राधान्येन स्मृता देवाः शक्तयः परमात्मनः
गीयते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः
इन्द्रमेके परे विश्वान् ब्रह्माणमपरे जगुः
एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्तिताः
तत् तद् रूपं समास्थाय प्रददाति फलं शिवः
आराधयन्महादेवं याति तत्परमं पदम्
आराधयेद् वै गिरिशं सगुणं वाथ निर्गुणम्
आरुरुक्षुस्तु सगुणं पूजयेत् परमेश्वरम्
पद्मासनस्थं रुक्माभं चिन्तयेद् वैदिकी श्रुतिः
आराधयेद् विरूपाक्षमादिमध्यान्तसंस्थितम्
तादृशं रूपमास्थाय समायात्यन्तिकं शिवम्
यथाविधि प्रकुर्वाणः प्राप्नुयादैश्वरं पदम्
ततो वाय्वग्निशक्रादीन् पूजयेद् भक्तिसंयुतः
अथापि कथितो योगो निर्बोजश्च सबीजकः
सथवाग्न्यादिकान् देवांस्तत्परः संयतेन्द्रियः
अनादिनिधनं देवं वासुदेवं सनातनम्
एष एव विधिर्ब्राह्मे भावने चान्तिके मतः
इन्द्रद्युम्नाय मुनये कथितं यन्मया पुरा
तदीश्वरः परं ब्रह्म तस्माद् ब्रह्ममयं जगत्
तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम्
नारायणाय विश्वाय वासुदेवाय ते नमः
माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च
नमः सहस्रहस्ताय सहस्रचरणाय च
आनन्दाय नमस्तुभ्यं मायातीताय ते नमः