हंसः प्राणो ऽथ कपिलो विश्वमूर्तिः सनातनः
माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते
ज्ञात्वात्मानममृतत्वं व्रजन्ति
प्राकृतं हि समासेन शृणुध्वं गदतो मम
कालाग्निर्भस्मसात् कर्तुं करोति निकिलं मतिम्
दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम्
करोति लोकसंहारं भीषणं रूपमाश्रितः
निर्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक्
देवतानां शरीरेषु क्षिपत्यखिलदाहकम्
एकासा साक्षिणी शंभोस्तिष्ठते वैदिकी श्रुतिः
आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम्
सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः
त्रिशूली कृत्तिवसनो योगमैश्वरमास्थितः
करोति ताण्डवं देवीमालोक्य परमेश्वरः
योगमास्थाय देवस्य देहमायाति शूलिनः
ज्योतिः स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम्
गुणैरशेषैः पृथिवीविलयं याति वारिषु
तेजस्तु गुणसंयुक्तं वायौ संयाति संक्षयम्
भूतादौ च तथाकाशं लीयते गुणसंयुतम्
वैकारिके देवगणाः प्रलंय यान्ति सत्तमाः
त्रिविधो ऽयमहङ्कारो महति प्रलंय व्रजेत्
अव्यक्तं जगतो योनिः संहरेदेकमव्ययम्
वियोजयति चान्योन्यं प्रधानं पुरुषं परम्
महेश्वरेच्छाजनितो न स्वयं विद्यते लयः
प्रधानं जगतो योनिर्मायातत्त्वमचेतनम्
गीयते मुनिभिः साक्षी महानेकः पितामहः
प्रधानाद्यं विशेषान्तं दहेद् रुद्र इति श्रुतिः
आत्यन्तिकं चैव लयं विदधातीह शङ्करः
स्थापिका मोहनी शक्तिर्नारायण इति श्रुतिः
सृजेदशेषं प्रकृतेस्तन्मयः पञ्चविंशकः