पिबन्नपः समिद्धो ऽग्निः पृथिवीमाश्रितो ज्वलन्
लोकान् दहति दीप्तात्मा रुद्रतेजोविजॄम्भितः
अधस्तात् पृथिवीं दग्ध्वा दिवमूर्ध्वं दहिष्यति
उत्तिष्ठन्ति शिखास्तस्य वह्नेः संवर्तकस्य तु
तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः
दहेदशेषं कालाग्निः कालो विश्वतनुः स्वयम्
अयोगुडनिभं सर्वं तदा चैकं प्रकाशते
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः
धूम्रवर्णास्तथा केचित् केचित् पीताः पयोधराः
शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभाः परे
इन्द्रचापनिभाः केचिदुत्तिष्ठन्ति घना दिवि
बहूरूपा घोरूपा घोरस्वरनिनादिनः
सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत
सुघोरमशिवं सर्वं नाशयन्ति च पावकम्
अद्भिस्तेजोभिभूतत्वात् तदाग्निः प्रविशत्यपः
प्लावयन्तो ऽथ भुवनं महाजलपरिस्त्रवैः
अत्यन्तसलिलौघैश्च वेला इव महोदधिः
पुनः पतति तद् भूमौ पूर्यन्ते तेन चार्णवाः
पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति
योगनिन्द्रां समास्थाय शेते देवः प्रजापतिः
वाराहो वर्तते कल्पो यस्य विस्तार ईरितः
कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः
तामसेषु हरस्योक्तं राजसेषु प्रजापतेः
अन्ये च सात्त्विकाः कल्पा मम तेषु परिग्रहः
आराध्य गिरिशं मां च यान्ति तत् परमं पदम्
एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु
जनलोके वर्तमानास्तपसा योगचक्षुषा
सहस्रचरणः श्रीमान् सहस्रांशुः सहस्रदृक्
प्रोक्षणी च श्रुवश्चैव सोमो घृतमथास्म्यहम्
वेदो वेद्यं प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम्