प्रकुर्यात् तीर्थसंसेवां ये चान्ये तादृशा जनाः
सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात्
विधाय वृत्तिं पुत्राणां भार्यां तेषु निधाय च
यः पठेच्छृणुयाद् वापि मुच्यते सर्वपातकैः
कूर्मरूपधरं देवं पप्रच्छुर्मुनयः प्रभुम्
लोकानां सर्गविस्तारं वंशमन्वन्तराणि च
भूतानां भूतभव्येश यथा पूर्वं त्वयोदितम्
व्याजहार महायोगी भूतानां प्रतिसंचरम्
चतुर्धायं पुराणे ऽस्मिन् प्रोच्यते प्रतिसंचरः
नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः
त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः
प्राकृतः प्रतिसर्गो ऽयं प्रोच्यते कालचिन्तकैः
प्रलयः प्रतिसर्गो ऽयं कालचिन्तापरैर्द्विजैः
नैमित्तिकमिदानीं वः कथयिष्ये समासतः
स्वात्मसंस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजापतिः
भूतक्षयकरी घोरा सर्वभूतक्षयङ्करी
तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च
असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः
तेनाहारेण ता दीप्ताः सूर्याः सप्त भवन्त्युत
चतुर्लोकमिदं सर्वं दहन्ति शिखिनस्तथा
दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः
खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम्
साद्रिनद्यर्णवद्वीपा निस्नेहा समपद्यत
अधश्चोर्ध्वं च लग्नाभिस्तिर्यक् चैव समावृतम्
एकत्वमुपयातानामेकज्वालं भवत्युत
चतुर्लोकमिदं सर्वं निर्दहत्यात्मतेजसा
निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठा प्रकाशते
सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते पुनः
ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च
तान् सर्वान् भस्मसात् कृत्वा सप्तात्मा पावकः प्रभुः