त्रैलोक्यकण्टकावेतावसुरौ हन्तुमर्हसि
आज्ञापयामास तयोर्वधार्थं पुरुषावुभौ
व्यनयत् कैटभं विष्णुर्जिष्णुश्च व्यनयन्मधुम्
बभाषे मधुरं वाक्यं स्नेहाविष्टमना हरिः
नाहं भवन्तं शक्नोमि वोढुं तेजामयं गुरुम्
अवाच वैष्णवीं निद्रामेकीभूयाथ विष्णुना
ब्रह्मा नारायणाख्यो ऽसौ सुष्वाप सलिले तदा
अनाद्यनन्तमद्वैतं स्वात्मानं ब्रह्मसंज्ञितम्
ससर्ज सृष्टिं तद्रूपां वैष्णवं भावमाश्रितः
ऋभुं सनत्कुमारं च पुर्वजं तं सनातनम्
विदित्वा परमं भावं न सृष्टौ दधिरे मतिम्
बभूव नष्टचेता वै मायया परमेष्ठिनः
व्याजहारात्मनः पुत्रं मोहनाशाय पद्मजम्
यदुक्तवानात्मनो ऽसौ पुत्रत्वे तव शङ्करः
प्रजाः स्त्रष्टुमनास्तेपे तपः परमदुश्चरम्
ततो दीर्घेण कालेन दुः खात् क्रोधो ऽभ्यजायत
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तथाभवन्
जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः
सहस्त्रादित्यसंकाशो युगान्तदहनोपमः
रोदनाद् रुद्र इत्येवं लोके ख्यातिं गमिष्यसि
स्थानानि चैषामष्टानां ददौ लोकपितामहः
भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै
दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्तयः
तेषामष्टतनुर्देवो ददाति परमं पदम्
स्वाहा दिशश्च दीक्षा च रोहिणी चेति पत्नयः
स्कन्दः सर्गो ऽथ सन्तानो बुधश्चैषां सुताः स्मृताः
प्रजाधर्मं च काम च त्यक्त्वा वैराग्यमाश्रितः
पीत्वा तदक्षरं ब्रह्म शाश्वतं परमामृतम्
स्वात्मना सदृशान् रुद्रान् ससर्ज मनसा शिवः
त्रिशूलहस्तानृष्टिघ्नान् महानन्दांस्त्रिलोचनान्