नाम्ना पञ्चनदं पुण्यं सर्वपापप्रणाशनम्
सर्वपापविशुद्धात्मा रुद्रलोके महीयते
महाभैरवमित्युक्तं महापातकनाशनम्
सर्वपापहरा पुण्या स्वयमेव गिरीन्द्रजा
यत्र देवादिदेवेन चक्रार्थं पूजितो भवः
मृतस्तत्रापि नियमाद् ब्रह्मलोके महीयते
यत्र माहेश्वरा धर्मा मुनिभिः संप्रवर्तिताः
परित्यजति यः प्राणान् रुद्रलोकं स गच्छति
तत्र गत्वा त्यजेत् प्राणांल्लोकान् प्राप्नोति शाश्वतान्
तत्र स्नात्वा तीर्थ वरे गोसहस्रफलं लभेत्
गत्वा प्राणान् परित्यज्य गाणपत्यमवाप्नुयात्
तत्र सन्निहितः श्रीमान् भगवान् नकुलीश्वरः
देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः
सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात्
भीमेश्वरमिति ख्यातं गत्वा मुञ्चति पातकम्
तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया
नाम्नावाराणसी दिव्या कोटिकोट्ययुताधिका
नान्यत्र लभ्यते मुक्तिर्योगिनाप्येकजन्मना
गत्वा संक्षालयेत् पापं जन्मान्तरशतैः कृतम्
न तस्य फलते तीर्थमहि लोके परत्र च
प्रकुर्यात् तीर्थसंसेवां ये चान्ये तादृशा जनाः
सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात्
विधाय वृत्तिं पुत्राणां भार्यां तेषु निधाय च
यः पठेच्छृणुयाद् वापि मुच्यते सर्वपातकैः
कूर्मरूपधरं देवं पप्रच्छुर्मुनयः प्रभुम्
लोकानां सर्गविस्तारं वंशमन्वन्तराणि च
भूतानां भूतभव्येश यथा पूर्वं त्वयोदितम्
व्याजहार महायोगी भूतानां प्रतिसंचरम्
चतुर्धायं पुराणे ऽस्मिन् प्रोच्यते प्रतिसंचरः
नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः