एकैकं पावयेत् पापं सप्तजन्मकृतं द्विजाः
प्रोवाच वायुर्ब्रह्माण्डं पुराणं ब्रह्मभाषितम्
रमते ऽध्यापि भगवान् प्रमथैः परिवारितः
ब्रह्मलोकं गमिष्यन्ति यत्र गत्वा न जायते
जजाप रुद्रमनिशं यत्र नन्दी महागणः
ददावात्मसमानत्वं मृत्युवञ्चनमेव च
आराधयन्महादेवं पुत्रार्थं वृषभध्वजम्
शर्वः सोमो गणवृतो वरदो ऽस्मीत्यभाषत
अयोनिजं मृत्युहीनं देहि पुत्रं त्वया समम्
पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो हरः
चकर्ष लाङ्गलेनोर्वों भित्त्वादृश्यत शोभनः
रूपलावण्यसंपन्नस्तेजसा भासयन् दिशः
शिलादं तात तातेति प्राह नन्दी पुनः पुनः
मुनिभ्यो दर्शयामास ये तदाश्रमवासिनः
उपनीय यथाशास्त्रं वेदमध्यापयत् सुतम्
चक्रे महेश्वरं द्रष्टुं जेष्ये मृत्युमिति प्रभुम्
जजाप रुद्रमनिशं महेशासक्तमानसः
आगत्य साम्बः सगणो वरदो ऽस्मीत्युवाच ह
तावदायुर्महादेव देहीति वरमीश्वर
जजाप कोटिं भगवान् भूयस्तद्गतमानसः
आगत्य वरदो ऽस्मीति प्राह भूतगणैर्वृतः
तथास्त्वित्याह विश्वात्मा देवो ऽप्यन्तरधीयत
आगत्य वरदो ऽस्मीति प्राह भूतगणैर्वृतः
इत्युक्ते भगवानाह न जप्तव्यं त्वया पुनः
महागणपतिर्देव्याः पुत्रो भव महेश्वरः
सर्वलोकाधिपः श्रीमान् सर्वज्ञो मद्बलान्वितः
आभूतसंप्लवस्थायी ततो यास्यसि मत्पदम्
अभिषेकेण युक्तेन नन्दीश्वरमयोजयत्
मरुतां च शुभां कन्यां सुयशेति च विश्रुताम्
यत्र तत्र मृतो मर्त्यो रुद्रलोके महीयते