ब्रहामणा निर्मितं स्थानं तपस्तप्तुं द्विजोत्तमाः
भृगवो ऽङ्गिरसः पूर्वा ब्रह्माणं कमलोद्भवम्
पृच्छन्ति प्रणिपत्यैनं विश्वकर्माणमच्युतम्
केनोपायेन पश्यामो ब्रूहि देवनमस्कृतम्
देशं च वः प्रवक्ष्यामि यस्मिन् देशे चरिष्यथ
यत्रास्य नेमिः शीर्येत स देशः पुरुषर्षभाः
नैमिसं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम्
स्थानं भगवतः शंभोरेतन्नैमिशमुत्तमम्
तपस्तप्त्वा पुरा देवा लेभिरे प्रवरान् वरान्
सत्रेणाराध्य देवेशं दृष्टवन्तो महेश्वरम्
एकैकं पावयेत् पापं सप्तजन्मकृतं द्विजाः
प्रोवाच वायुर्ब्रह्माण्डं पुराणं ब्रह्मभाषितम्
रमते ऽध्यापि भगवान् प्रमथैः परिवारितः
ब्रह्मलोकं गमिष्यन्ति यत्र गत्वा न जायते
जजाप रुद्रमनिशं यत्र नन्दी महागणः
ददावात्मसमानत्वं मृत्युवञ्चनमेव च
आराधयन्महादेवं पुत्रार्थं वृषभध्वजम्
शर्वः सोमो गणवृतो वरदो ऽस्मीत्यभाषत
अयोनिजं मृत्युहीनं देहि पुत्रं त्वया समम्
पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो हरः
चकर्ष लाङ्गलेनोर्वों भित्त्वादृश्यत शोभनः
रूपलावण्यसंपन्नस्तेजसा भासयन् दिशः
शिलादं तात तातेति प्राह नन्दी पुनः पुनः
मुनिभ्यो दर्शयामास ये तदाश्रमवासिनः
उपनीय यथाशास्त्रं वेदमध्यापयत् सुतम्
चक्रे महेश्वरं द्रष्टुं जेष्ये मृत्युमिति प्रभुम्
जजाप रुद्रमनिशं महेशासक्तमानसः
आगत्य साम्बः सगणो वरदो ऽस्मीत्युवाच ह
तावदायुर्महादेव देहीति वरमीश्वर
जजाप कोटिं भगवान् भूयस्तद्गतमानसः