तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते
वराहतीर्थ माख्यातं विष्णुलोकगतिप्रदम्
स्नातमात्रो नरस्तत्र चन्द्रलोके महीयते
स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत्
तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते
यत् तत्र दीयते दानं सर्वं कोटिगुणं भवेत्
यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत्
विधूय सर्वपापानि ब्रह्मलोके महीयते
तत्र स्नात्वा नरो राजन् दैवतैः सह मोदते
स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते
तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति
क्रीडते नाकलोकस्थो ह्यप्सरोभिः स मोदते
अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात्
अश्वमेधाद् दशगुणं प्रवदन्ति मनीषिणः
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति
हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति
तत्र तीर्थं महापुण्यं सर्वपापप्रणाशनम्
तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया
जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः
त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः
तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते
सप्तजन्मकृतं पापं हित्वा याति शिवालयम्
अस्य तीर्थस्य माहात्म्यान्मुच्यते ब्रह्महत्यया
न शक्या विस्तराद् वक्तुं संख्या तीर्थेषुपाण्डव
नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा
चान्द्रायणशतं साग्रं लभते नात्र संशयः
पतन्ति नरके घोरे इत्याह परमेश्वरः
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी
महादेवप्रियकरं महापातकनाशनम्