एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम्
भोजनं च यथाशक्ति तदस्याक्षयमुच्यते
अक्षयं तत् तपस्तप्तं भृगुतीर्थे युधिष्ठिर
सान्निध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर
यत्राराध्य त्रिशूलाङ्कं गौतमः सिद्धिमाप्नुयात्
काञ्चनेन विमानेन ब्रह्मलोके महीयते
न जानन्ति नरा मूढा विष्णोर्मायाविमोहिताः
तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति
चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत्
कालेन महता जातः पृथिव्यामेकराड् भवेत्
तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते
वराहतीर्थ माख्यातं विष्णुलोकगतिप्रदम्
स्नातमात्रो नरस्तत्र चन्द्रलोके महीयते
स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत्
तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते
यत् तत्र दीयते दानं सर्वं कोटिगुणं भवेत्
यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत्
विधूय सर्वपापानि ब्रह्मलोके महीयते
तत्र स्नात्वा नरो राजन् दैवतैः सह मोदते
स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते
तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति
क्रीडते नाकलोकस्थो ह्यप्सरोभिः स मोदते
अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात्
अश्वमेधाद् दशगुणं प्रवदन्ति मनीषिणः
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति
हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति
तत्र तीर्थं महापुण्यं सर्वपापप्रणाशनम्
तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया
जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः