एकविंशत्कुलोपेतो न च्यवेदैश्वरात् पदात्
न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत्
तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति
स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः
एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम्
उद्वादयति यस्तीर्थे तस्य पुण्यफलं शृणु
तावद् वर्षसहस्राणि रुद्रलोके महीयते
स्नानं कृत्वा नक्तभीजी न पश्येद् योनिसङ्कटम्
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः
नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बिषैः
गङ्गावतरते तत्र दिने पुण्ये न संशयः
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
प्रीयते तस्य नन्दीशः सोमलोके महीयते
तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति
रूपवान् जायते लोके धनभोगसमन्वितः
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत्
तत्रोपोष्य नरो भक्त्या दद्याद् दीपं घृतेन तु
घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत्
शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम्
स्नापयित्वा शिवं दद्याद् ब्राह्मणेभ्यस्तु भोजनम्
गत्वा शक्रस्य भवनं शक्रेण सह मोदते
स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत्
श्रावणे मासी संप्राप्ते कृष्णपक्षे चतुर्दशी
पितॄणां तर्पणं कृत्वा मुच्यते ऽसावॄणत्रयात्
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः
दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम्
अमावस्यां नरः स्नात्वा पूजयेद् वृषभध्वजम्
गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते
पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत्
तत्र देवो भृगुः पुर्वं रुद्रमाराधयत् पुरा