स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम्
कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत्
स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत्
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते
त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम्
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति
जले चानशनं वापि नासौ मर्त्यो ऽभिजायते
स्नातमात्रो नरस्तत्र सोमलोके महीयते
योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम्
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति
कामतीर्थमिति ख्यातं यत्र कामोर्ऽचयद् भवम्
कुसुमायुधरूपेण रुद्रोलोके महीयते
उमाहकमिति ख्यातं तत्र संतर्पयेत् पितॄन्
गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता
तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी
स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत्
तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते
स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम्
पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम्
तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम्
तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम्
नास्ति तेन सम तीर्थं नर्मदायां युधिष्ठिर
होमाच्चैवोपवासाच्च शुक्लतीर्थे महत् फलम्
शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम्
देव्या सह सदा भर्गस्तत्र तिष्ठति शङ्करः
कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः
गणाश्चाप्सरसां नागास्तत्र तिष्ठन्ति पुङ्गव
स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति