तत्र स्नात्वा नरो राजन् सिहासनपतिर्भवेत्
उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि
गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति
स्नातमात्रो नरस्तत्र शिवलोके महीयते
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत्
प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः
यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते
महेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम्
स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात्
तावद् वर्षसहस्राणि रुद्रलोके महीयते
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ
ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा
हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता
प्रीतस्तस्य भवेद् व्यासो वाञ्छितं लभते फलम्
तत्र स्तनात्वा नरो राजन् गाणपत्यमवाप्नुयात्
आजन्मनः कृतं पापं स्नातस्तीव्रं व्यपोहति
उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम्
गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति
तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम्
स्नानं तत्र प्रकुर्वोत अश्वमेधफलं लभेत्
तत्र स्त्रात्वा नरो राज्यं लभते नात्र संशयः
स्नातमात्रो नरस्तत्र सोमलोके महीयते
तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत्
आदित्यायतनं रम्यमीश्वरेण तु भाषितम्
तस्य तीर्थप्रभावेण लभते चाक्षयं फलम्
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात्
तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा प्रयत्नतः
पुष्पकेण विमानेन वायुलोकं स गच्छति