वर्षकोटिशतं साग्रं रुद्रलोके महीयते
पवित्रं शिरसा वन्द्य सर्वपापैः प्रमुच्यते
अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया
तत्र गत्वा नियमवान् सर्वकामांल्लभेन्नरः
अश्वमेधाद् दशगुणं पुण्यमाप्नोति मानवः
नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः
ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानः
संगमे नर्मदायास्तु रुद्रलोके महीयते
मुनिभिः कथिता पूर्वमीश्वरेण स्वयंभुवा
रुद्रगात्राद् विनिष्क्रान्ता लोकानां हितकाम्यया
संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च
तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत्
सर्वपापविशुद्धात्मा रुद्रलोके महीयते
तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात्
तत्र स्नात्वा महाराज रुद्रलोके महीयते
तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात्
स्नातमात्रो नरस्तत्र इन्द्रस्यार्धासनं लभेत्
तत्र स्नात्वार्चयेद् देवं गोसहस्रफलं लभेत्
तत्र स्नात्वा नरो राजन् सिहासनपतिर्भवेत्
उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि
गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति
स्नातमात्रो नरस्तत्र शिवलोके महीयते
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत्
प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः
यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते
महेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम्
स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात्