त्वामेव पुत्रमिच्छामि त्वया वा सदृशं सतम्
न जाने परमं भावं याथातथ्येन ते शिव
प्रसीद तव पादाब्जं नमामि शरणं गतः
व्याजहार तदा पुत्रं समालोक्य जनार्दनम्
विज्ञानमैश्वरं दिव्यमुत्पत्स्यति तवानघ
तथा कुरुष्व देवेश मया लोकपितामह
भविष्यति तवेशानो योगक्षेमवहो हरिः
संस्पृश्य देवं ब्रह्माणं हरिं वचनमब्रवीत्
वरं वृणीष्वं नह्यावां विभिन्नौ परमार्थतः
प्राह प्रसन्नया वाचा समालोक्य चतुर्मुखम्
पश्यामि परमात्मानं भक्तिर्भवतु मे त्वयि
भवान् सर्वस्य कार्यस्य कर्ताहऽमधिदैवतम्
भवान् सोमस्त्वहं सूर्यो भवान् रात्रिरहं दिनम्
भवान् ज्ञानमहं ज्ञाता भवान् मायाहमीश्वरः
यो ऽहं सुनिष्कलो देवः सो ऽपि नारायणः परः
पालयैतज्जगत् कृत्स्नं सदेवासुरमानुषम्
धामैकमव्यक्तमनन्तशक्तिः
तदेव सुमहत् पद्मं भेजे नाभिसमुत्थितम्
महासुरौ समायातौ भ्रातरौ मधुकैटभौ
कर्णान्तरसमुद्भूतौ देवदेवस्य शार्ङ्गिणः
त्रैलोक्यकण्टकावेतावसुरौ हन्तुमर्हसि
आज्ञापयामास तयोर्वधार्थं पुरुषावुभौ
व्यनयत् कैटभं विष्णुर्जिष्णुश्च व्यनयन्मधुम्
बभाषे मधुरं वाक्यं स्नेहाविष्टमना हरिः
नाहं भवन्तं शक्नोमि वोढुं तेजामयं गुरुम्
अवाच वैष्णवीं निद्रामेकीभूयाथ विष्णुना
ब्रह्मा नारायणाख्यो ऽसौ सुष्वाप सलिले तदा
अनाद्यनन्तमद्वैतं स्वात्मानं ब्रह्मसंज्ञितम्
ससर्ज सृष्टिं तद्रूपां वैष्णवं भावमाश्रितः
ऋभुं सनत्कुमारं च पुर्वजं तं सनातनम्