विस्तारेण तु राजेन्द्र योजनद्वयमायता
पर्वतस्य समन्तात् तु तिष्ठन्त्यमरकण्टके
सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः
तस्य पुण्यफलं राजन् शृणुष्वावहितो नृप
सप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवारितः
क्रीडते देवलोके तु दैवतैः सह मोदते
गृहं तु लभते ऽसौ वै नानारत्नसमन्वितम्
आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितम्
जीवेद् वर्षशतं साग्रं तत्र भोगसमन्वितः
अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा
ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः
दशवर्षाणि पितरस्तर्पिताः स्युर्न संशयः
सरलार्जुनसंच्छन्ना नातिदूरे व्यवस्थिता
तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर
नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम्
तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात्
ईश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति
ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते
समं स्नानं च दानं च यथा मे शङ्करो ऽब्रवीत्
वर्षकोटिशतं साग्रं रुद्रलोके महीयते
पवित्रं शिरसा वन्द्य सर्वपापैः प्रमुच्यते
अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया
तत्र गत्वा नियमवान् सर्वकामांल्लभेन्नरः
अश्वमेधाद् दशगुणं पुण्यमाप्नोति मानवः
नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः
ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानः
संगमे नर्मदायास्तु रुद्रलोके महीयते
मुनिभिः कथिता पूर्वमीश्वरेण स्वयंभुवा