तस्यामथैते मुनयश्च विप्राः
रुद्रं बृहन्तं पुरुषं पुराणम्
दाविर्बभौ जन्मविनाशहेतु
व्योमाभिधाना दिवि राजतीव
मायामथारुह्य स देवदेवः
मेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति
वनौकसस्ते पुनरेव रुद्रम्
देवदारुवने पूर्वं पुराणे यन्मया श्रुतम्
श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम्
नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी
युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम्
माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च
तस्यास्त्विदानीं माहात्म्यं वक्तुमर्हसि सत्तम
तारयेत् सर्वभूतानि स्थावराणि चराणि च
इदानीं तत्प्रवक्ष्यामि शृणुष्वैकमनाः शुभम्
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम्
पुण्या च त्रिषु लोकेषु रमणीया मनोरमा
तपस्तप्त्वा तु राजेन्द्र सिद्धिं तु परमां गताः
उपोष्य रजनीमेकां कुलानां तारयेच्छतम्
विस्तारेण तु राजेन्द्र योजनद्वयमायता
पर्वतस्य समन्तात् तु तिष्ठन्त्यमरकण्टके
सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः
तस्य पुण्यफलं राजन् शृणुष्वावहितो नृप
सप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवारितः
क्रीडते देवलोके तु दैवतैः सह मोदते
गृहं तु लभते ऽसौ वै नानारत्नसमन्वितम्
आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितम्
जीवेद् वर्षशतं साग्रं तत्र भोगसमन्वितः
अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा