असेव्यमेतत् कथितं वेदवाह्यं तथेतरम्
ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम्
अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः
ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः
ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः
वितेनिरे बहून् वादान्नध्यात्मज्ञानसंश्रयान्
को ऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च
आविरासीन्महादेवी देवी गिरिवरात्मजा
स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम्
जानन्ति ते तत् परमस्य बीजम्
तस्यामथैते मुनयश्च विप्राः
रुद्रं बृहन्तं पुरुषं पुराणम्
दाविर्बभौ जन्मविनाशहेतु
व्योमाभिधाना दिवि राजतीव
मायामथारुह्य स देवदेवः
मेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति
वनौकसस्ते पुनरेव रुद्रम्
देवदारुवने पूर्वं पुराणे यन्मया श्रुतम्
श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम्
नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी
युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम्
माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च
तस्यास्त्विदानीं माहात्म्यं वक्तुमर्हसि सत्तम
तारयेत् सर्वभूतानि स्थावराणि चराणि च
इदानीं तत्प्रवक्ष्यामि शृणुष्वैकमनाः शुभम्
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम्
पुण्या च त्रिषु लोकेषु रमणीया मनोरमा
तपस्तप्त्वा तु राजेन्द्र सिद्धिं तु परमां गताः
उपोष्य रजनीमेकां कुलानां तारयेच्छतम्