त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे
सर्वप्रणतदेहाय स्वयमप्रणतात्मने
नमो ऽस्तु नृत्यशीलाय नमो भैरवरूपिणे
नमो दान्ताय शान्ताय तापसाय हराय च
नमस्ते लेलिहानाय शितिकण्ठाय ते नमः
नमः कनकमालाय देव्याः प्रियकराय च
नमो योगाधिपतये ब्रह्माधिपतये नमः
नमस्ते घनवाहाय दंष्ट्रिणे वह्निरेतसे
विश्वेश्वर महादेव यो ऽसि सो ऽसि नमो ऽस्तु ते
नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः
किरीटिने कुण्डलिने कालकालाय ते नमः
क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः
ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयो ऽसि शङ्कर
तत्सर्वं भगवानेन कुरुते योगमायया
ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा
स्वमेव परमं रूपं दर्शयामास शङ्करः
यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः
भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च
प्रणम्य देवदेवेशमिदं वचनमब्रुवन्
ज्ञानेन वाथ योगेन पूजयामः सदैव हि
किं तत् सेव्यमसेव्यं वा सर्वमेतद् ब्रवीहि नः
ब्रह्मणे कथितं पूर्वमादावेव महर्षयः
योगेन सहितं सांख्यं पुरुषाणां विमुक्तिदम्
ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम्
विहाय सांख्यं विमलमकुर्वन्त परिश्रमम्
आगतो ऽहमिमं देशं ज्ञापयन् मोहसंभवम्
ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च
आनन्दो निर्मलो नित्यं स्यादेतत् सांख्यदर्शनम्
एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः
पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम्