ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम्
तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम्
वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः
तपः परं समास्थाय गृणन्तः शतरुद्रियम्
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति
जग्मुः संहृष्टमनसो देवदारुवनं पुनः
अजानन्तः परं देवं वीतरागा विमत्सराः
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च
केचिदभ्रावकाशास्तु पादाङ्गुष्ठाग्रविष्ठिताः
शाकपर्णाशिनः केचित् संप्रक्षाला मरीचिपाः
कालं नयन्ति तपसा पूजयन्तो महेश्वरम्
चका भगवान् बुद्धिं प्रबोधाय वृषध्वजः
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः
क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः
मायां कृत्वात्मनो रूपं देवस्तद् वनमागतः
सा च पूर्ववद् देवेशी देवदारुवनं गता
प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम्
अथर्वशिरसा चान्ये रुद्राद्यैर्ब्रह्मभिर्भवम्
त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे
सर्वप्रणतदेहाय स्वयमप्रणतात्मने
नमो ऽस्तु नृत्यशीलाय नमो भैरवरूपिणे
नमो दान्ताय शान्ताय तापसाय हराय च
नमस्ते लेलिहानाय शितिकण्ठाय ते नमः
नमः कनकमालाय देव्याः प्रियकराय च
नमो योगाधिपतये ब्रह्माधिपतये नमः
नमस्ते घनवाहाय दंष्ट्रिणे वह्निरेतसे
विश्वेश्वर महादेव यो ऽसि सो ऽसि नमो ऽस्तु ते
नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः