न तस्य परमं किञ्चित् पदं समधिगम्यते
संहरत्येष भगवान् कालो भूत्वा महेश्वरः
एष चक्री च वज्री च श्रीवत्सकृतलक्षणः
द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः
यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम्
सा हि नारायणो देवः परमात्मा सनातनः
स एव मोहयेत् कृत्स्नं स एव परमा गतिः
एकशृङ्गो महानात्मा पुराणो ऽष्टाक्षरो हरिः
एकमूर्तिरमेयात्मा नारायण इति श्रुतिः
स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्धर्ममोक्षिभिः
शेते योगामृतं पीत्वा यत् तद् विष्णोः परं पदम्
मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः
अजस्य नाभौ तद् बीजं क्षिपत्येष महेश्वरः
महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम्
देवदेवं महादेवं भूतानामीश्वरं हरम्
विष्णुना सह संयुक्तः करोति विकरोति च
स वेदान् प्रददौ पूर्वं योगमायातनुर्मम
तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम्
प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुः खिताः
ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम्
तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम्
वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः
तपः परं समास्थाय गृणन्तः शतरुद्रियम्
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति
जग्मुः संहृष्टमनसो देवदारुवनं पुनः
अजानन्तः परं देवं वीतरागा विमत्सराः
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च
केचिदभ्रावकाशास्तु पादाङ्गुष्ठाग्रविष्ठिताः