भवन्तमेव शरणं प्रपन्ना वयमच्युत
अनुग्रहेण विश्वेश तदस्माननुपालय
ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत
धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह
उपेक्षितं वृथाचारैर्भवद्भिरिह मोहितैः
यमेव तं समासाद्य हा भवद्भिरुपेक्षितम्
महानिधिं समासाद्य हा भवद्भिरुपेक्षितम्
तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम्
तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः
तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम्
न तस्य परमं किञ्चित् पदं समधिगम्यते
संहरत्येष भगवान् कालो भूत्वा महेश्वरः
एष चक्री च वज्री च श्रीवत्सकृतलक्षणः
द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः
यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम्
सा हि नारायणो देवः परमात्मा सनातनः
स एव मोहयेत् कृत्स्नं स एव परमा गतिः
एकशृङ्गो महानात्मा पुराणो ऽष्टाक्षरो हरिः
एकमूर्तिरमेयात्मा नारायण इति श्रुतिः
स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्धर्ममोक्षिभिः
शेते योगामृतं पीत्वा यत् तद् विष्णोः परं पदम्
मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः
अजस्य नाभौ तद् बीजं क्षिपत्येष महेश्वरः
महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम्
देवदेवं महादेवं भूतानामीश्वरं हरम्
विष्णुना सह संयुक्तः करोति विकरोति च
स वेदान् प्रददौ पूर्वं योगमायातनुर्मम
तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम्
प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुः खिताः