ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर
संप्रेक्ष्य जगतो योनिं पार्श्वस्थं च जनार्दनम्
त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः
अस्माभिरेषा सुभगा तादृशी त्यागमर्हति
नाहमेनामपि तथा विमुञ्चामि कदाचन
उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि
भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह
वसिष्ठस्याश्रमं पुण्यं भिक्षार्थो परमेश्वरः
वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम्
संधयामास भैषज्यैर्विष्णा वदना सती
उवाच तां महादेवः सिद्धानां प्रवरो ऽस्म्यहम्
एषैव देवता मह्यं धारयामि सदैव तत्
ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः
प्रोचुरेतद् भवांल्लिङ्गमुत्पाटयतु दुर्मते
युष्माकं मामके लिङ्गे यदि द्वेषो ऽभिजायते
नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च
निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः
कथयामास विप्राणां भयादाकुलितेक्षणा
भिक्षमाणः शिवो नूनं दृष्टो ऽस्माकं गृहेष्विति
सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसंभवम्
चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम्
प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते
चतुर्मुखं महाबाहुं छन्दोमयमजं परम्
शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम्
व्याजहार मुनिश्रेष्ठाः किमागमनकारणम्
ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम्
भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि
कन्यकानां प्रिया चास्य दूषयामास पुत्रकान्
ताडितो ऽस्माभिरत्यर्थं लिङ्गन्तु विनिपातितम्
उत्पाताश्चाभवन् घोराः सर्वभूतभयङ्कराः