लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः
मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः
दधानो भगवानीशः समागच्छति सस्मितः
स्त्रीवेषं विष्णुरास्थाय सो ऽनुगच्छति शूलिनम्
शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम्
उदारहंसचलनं विलासि सुमनोहरम्
चचार हरिणा भिक्षां मायया मोहयन् जगत्
मायया मोहिता नार्यो देवदेवं समन्वयुः
सहैव तेन कामार्ता विलासिन्यश्चरन्तिहि
अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः
मिच्छन्त्यथालिङ्गनमाचरन्ति
भ्रूभङ्गमन्ये विचरन्ति तेन
मायानुभूयन्त इतिव सम्यक्
यथैकशक्त्या सह देवदेवः
तदीशवृत्तामृतमादिदेवः
मोहयन्तं मुनिश्रेष्ठाः कोपं संदधिरे भृशम्
शेषुश्च शापैर्विविधैर्मायया तस्य मोहिताः
यथादित्यप्रकाशेन तारका नभसि स्थिताः
को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः
इदानीं भार्यया देशे भवद्भिरिह सुव्रताः
ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर
संप्रेक्ष्य जगतो योनिं पार्श्वस्थं च जनार्दनम्
त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः
अस्माभिरेषा सुभगा तादृशी त्यागमर्हति
नाहमेनामपि तथा विमुञ्चामि कदाचन
उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि
भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह
वसिष्ठस्याश्रमं पुण्यं भिक्षार्थो परमेश्वरः
वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम्
संधयामास भैषज्यैर्विष्णा वदना सती