प्राणानिह नरस्त्यक्त्वा न भूयो जन्म विन्दति
तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः
ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम्
देवदारुवनं पुण्यं महादेवनिषेवितम्
तत्र सन्निहिता गङ्गातीर्थान्यायतनानि च
मोहयामास विप्रेन्द्रान् सूत वक्तुमिहार्हसि
सपुत्रदारा मुनयस्तपश्चेरुः सहस्रशः
यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः
ख्यापयन् स महादोषं ययौ दारुवनं हरः
ययौ निवृत्तविज्ञानस्थापनार्थं च शङ्करः
लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः
मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः
दधानो भगवानीशः समागच्छति सस्मितः
स्त्रीवेषं विष्णुरास्थाय सो ऽनुगच्छति शूलिनम्
शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम्
उदारहंसचलनं विलासि सुमनोहरम्
चचार हरिणा भिक्षां मायया मोहयन् जगत्
मायया मोहिता नार्यो देवदेवं समन्वयुः
सहैव तेन कामार्ता विलासिन्यश्चरन्तिहि
अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः
मिच्छन्त्यथालिङ्गनमाचरन्ति
भ्रूभङ्गमन्ये विचरन्ति तेन
मायानुभूयन्त इतिव सम्यक्
यथैकशक्त्या सह देवदेवः
तदीशवृत्तामृतमादिदेवः
मोहयन्तं मुनिश्रेष्ठाः कोपं संदधिरे भृशम्
शेषुश्च शापैर्विविधैर्मायया तस्य मोहिताः
यथादित्यप्रकाशेन तारका नभसि स्थिताः
को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः
इदानीं भार्यया देशे भवद्भिरिह सुव्रताः