त्रिशूलपाणिर्भगवांस्तेजसां परमो निधिः
मालामत्यद्भुताकारां धारयन् पादलम्बिनीम्
मोहितो माययात्यर्थं पीतवाससमब्वीत्
तेजोराशिरमेयात्मा समायाति जनार्दन
अपश्यदीश्वरं देवं ज्वलन्तं विमले ऽम्भसि
प्रोवाचोत्थाय भगवान् देवदेवं पितामहम्
अनादिनिधनो ऽचिन्त्यो लोकानामीश्वरो महान्
भूतानामधिपो योगी महेशो विमलः शिवः
यं प्रपश्यन्ति यतयो ब्रह्मभावेन भाविताः
कालो भूत्वा महादेवः केवलो निष्कलः शिवः
वेदांश्च प्रददौ तुभ्यं सो ऽयमायाति शङ्करः
वासुदेवाभिधानां मामवेहि प्रपितामह
दिव्यं भवतु ते चक्षुर्येन द्रक्ष्यसि तत्परम्
बुबुधे परमेशानं पुरतः समवस्थितम्
प्रपेदे शरणं देवं तमेव पितरं शिवम्
अथर्वशिरसा देवं तुष्टाव च कृताञ्जलिः
अवाप परमां प्रीतिं व्याजहार स्मयन्निव
मयैवोत्पादितः पूर्वं लोकसृष्ट्यर्थमव्ययम्
वरं वरय विश्वात्मन् वरदो ऽहं तवानघ
निरीक्ष्य विष्णुं पुरुषं प्रणम्याह वृषध्वजम्
त्वामेव पुत्रमिच्छामि त्वया वा सदृशं सतम्
न जाने परमं भावं याथातथ्येन ते शिव
प्रसीद तव पादाब्जं नमामि शरणं गतः
व्याजहार तदा पुत्रं समालोक्य जनार्दनम्
विज्ञानमैश्वरं दिव्यमुत्पत्स्यति तवानघ
तथा कुरुष्व देवेश मया लोकपितामह
भविष्यति तवेशानो योगक्षेमवहो हरिः
संस्पृश्य देवं ब्रह्माणं हरिं वचनमब्रवीत्
वरं वृणीष्वं नह्यावां विभिन्नौ परमार्थतः
प्राह प्रसन्नया वाचा समालोक्य चतुर्मुखम्