तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति
दशानामश्वमेधानां तत्राप्नोति फलं नरः
तत्राभिगम्य युक्तात्मा पौण्डरीकफलं लभेत्
ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते
यमुनाप्रभवं चैव सर्वपापविशोधनम्
तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत्
प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत्
तत्राभ्यर्च्य महादेवीं कोसहस्रफलं लभेत्
कुलान्युभयतः सप्त पुनातीति श्रुतिर्मम
तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया
अक्षयं चाव्ययं चैव कृतं भवति सर्वदा
दत्त्वा तु दानं विधिवद् ब्रह्मलोके महीयते
धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे
महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम्
हिताय सर्वभूतानां नास्तिकानां निदर्शनम्
पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः
उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम्
ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम्
कामान् सलभते दिव्यान् मोक्षोपायं च विन्दति
सिद्धचारणसंकीर्णो देवर्षिगणसेवितः
तत्र गत्वा द्विजो विद्वान् ब्रह्महत्यां विमुञ्चति
तारयेच्च पितॄन् सम्यग् दश पूर्वान् दशापरान्
नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः
तत्र नारायणो देवो नरेणास्ते सनातनः
तारयेच्च पितॄन् सर्वान् दत्त्वा श्राद्धं समाहितः
महादेवेन देवेन तत्र दत्तं महद् वरं
प्रसन्नो भगवानीशो मुनीन्द्रान् प्राह भावितान्
मद्भावनासमायुक्तास्ततः सिद्धिमवाप्स्यथ
तेषां ददामि परमं गाणपत्यं हि शाश्वतम्