तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत्
स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम्
सर्वपापविसुद्धात्मा गोसहस्रफलं लभेत्
त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा
अलोलुपो ब्रह्मचारो तीर्थानां फलमाप्नुयात्
तत्र सन्निहितो नित्यं स्कन्दो ऽमरनमस्कृतः
आराध्य षण्मुखं देवं स्कन्देन सह मोदते
पापकर्तॄनपि पितॄस्तारयेन्नात्र संशयः
तीर्थं तत्र भवेद् वस्तुं मृतानां स्वर्गतिर्ध्रुवा
भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः
तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति
दशानामश्वमेधानां तत्राप्नोति फलं नरः
तत्राभिगम्य युक्तात्मा पौण्डरीकफलं लभेत्
ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते
यमुनाप्रभवं चैव सर्वपापविशोधनम्
तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत्
प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत्
तत्राभ्यर्च्य महादेवीं कोसहस्रफलं लभेत्
कुलान्युभयतः सप्त पुनातीति श्रुतिर्मम
तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया
अक्षयं चाव्ययं चैव कृतं भवति सर्वदा
दत्त्वा तु दानं विधिवद् ब्रह्मलोके महीयते
धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे
महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम्
हिताय सर्वभूतानां नास्तिकानां निदर्शनम्
पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः
उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम्
ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम्
कामान् सलभते दिव्यान् मोक्षोपायं च विन्दति