उपासते महादेवं वेदाध्ययनतत्पराः
नमस्कृत्वाथ शिरसा रुद्रसामीप्यमाप्नुयात्
केदारमिति विख्यातं सिद्धानामालयं शुभम्
पीत्वा चैवोदकं शुद्धं गाणपत्यमवाप्नुयात्
द्विजातिप्रवरैर्जुष्टं योगिभिर्यतमानसैः
तत्राभ्यर्च्य श्रीनिवासं विष्णुलोके महीयते
अक्षयं विन्दति स्वर्गं तत्र गत्वा द्विजोत्तमः
यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः
मुच्यते सर्वपापैस्तु ब्रह्मलोकं लभेन्मृतः
तत्राभ्यर्च्य हृषीकेशं श्वेतद्वीपं निगच्छति
तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत्
स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम्
सर्वपापविसुद्धात्मा गोसहस्रफलं लभेत्
त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा
अलोलुपो ब्रह्मचारो तीर्थानां फलमाप्नुयात्
तत्र सन्निहितो नित्यं स्कन्दो ऽमरनमस्कृतः
आराध्य षण्मुखं देवं स्कन्देन सह मोदते
पापकर्तॄनपि पितॄस्तारयेन्नात्र संशयः
तीर्थं तत्र भवेद् वस्तुं मृतानां स्वर्गतिर्ध्रुवा
भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः
तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति
दशानामश्वमेधानां तत्राप्नोति फलं नरः
तत्राभिगम्य युक्तात्मा पौण्डरीकफलं लभेत्
ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते
यमुनाप्रभवं चैव सर्वपापविशोधनम्
तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत्
प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत्
तत्राभ्यर्च्य महादेवीं कोसहस्रफलं लभेत्
कुलान्युभयतः सप्त पुनातीति श्रुतिर्मम
तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया