कालं जरितवान् देवो यत्र भक्तिप्रियो हरः
तदाशीस्तन्नमस्कारः पूजयामास शूलिनम्
जजाप रुद्रमनिशं तत्र संन्यस्तमानसः
नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति
कालं कालकरं घोरं भीषणं चण्डदीधितिम्
ननाम शिरसा रुद्रं जजाप शतरुद्रियम्
एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव
एकमीशार्चनरतं विहायान्यं निषूदय
रुद्रार्चनरतो वान्यो मद्वशे को न तिष्ठति
बबन्ध पाशै राजापि जजाप शतरुद्रियम्
प्रादुर्भूतं संस्थितं संददर्श
मेने चास्मन्नाथ आगच्छतीति
राजर्षिस्तं नेतुमभ्याजगाम
देहीतीमं कालमूचे ममेति
क्रुद्धो रुद्रमभिदुद्राव वेगात्
श्वेतस्यैनं पश्यतो व्याजघान
रराज देवतापतिः सहोमया पिनाकधृक्
ननाम साम्बमव्ययं स राजपुङ्गवस्तदा
नमः शिवाय धीमते नमो ऽपवर्गदायिने
विभागहीनरूपिणे नमो नराधिपाय ते
अनादिनित्यभूतये वराहशृङ्गधारिणे
नमो महानटाय ते नमो वृषध्वजाय ते
स्वगाणपत्यमव्ययं सरूपतामथो ददौ
मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात्
अयाचत वरं रुद्रं सजीवो ऽयं भवत्विति
कृतान्तस्यैव भवता तत्कार्ये विनियोजितः
तथास्त्वित्याह विश्वात्मा सो ऽपि तादृग्विधो ऽभवत्
गत्वाभ्यर्च्य महादेवं गाणपत्यं स विन्दति
महादेवस्य देवस्य महालयमिति श्रुतम्
शिलातले पदं न्यस्तं नास्तिकानां निदर्शनम्