न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम्
विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः
किमेतद् भगवद्रूपं सुघोरं विश्वतोमुखम्
अन्तर्हितेव सहसा सर्वमिच्छामि वेदितुम्
महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः
दाहकः सर्वपापानां कालः कालकरो हरः
सो ऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः
प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी
नारायणः परो ऽव्यक्तो मायारूप इति श्रुतिः
योजयामि प्रकृत्याहं पुरुषं पञ्चविंशकम्
सृजत्यशेषमेवेदं स्वमूर्तेः प्रकृतेरजः
तवैतत् कथितं सम्यक् स्त्रष्ट्वत्वं परमात्मनः
समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः
दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः
विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः
तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः
आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते
संपूज्यो वन्दनीयो ऽहं ततस्तं पश्य शाश्वतम्
तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः
संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः
रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः
कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम्
अन्यो ऽन्यं भक्तियुक्तानां व्याघातो जायते किल
कोटिरूपो ऽभवद् रुद्रो रुद्रकोटिस्ततः स्मृतः
पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियो ऽभवन्
दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियो ऽभवन्
ज्योतिस्तत्रैव ते सर्वे ऽभिलषन्तः परं पदम्
दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात्
तत्र गत्वा नियमवानिन्द्रस्यार्धासनं लभेत्
तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम्