ननर्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम्
दृष्ट्वापि देवमीशानं नृत्यति स्म पुनः पुनः
स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत्
माहात्म्यमेतत् तपसस्त्वादृशो ऽन्यो ऽपि विद्यते
न युक्तं तापसस्यैतत् त्वत्तोप्यत्राधिको ह्यहम्
आस्थाय परमं भावं ननर्त जगतो हरः
दंष्ट्राकरालवदनो ज्वालामाली भयङ्करः
सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम्
ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी
पूर्ववेषं स जग्राह देवी चान्तर्हिताभवत्
न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम्
विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः
किमेतद् भगवद्रूपं सुघोरं विश्वतोमुखम्
अन्तर्हितेव सहसा सर्वमिच्छामि वेदितुम्
महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः
दाहकः सर्वपापानां कालः कालकरो हरः
सो ऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः
प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी
नारायणः परो ऽव्यक्तो मायारूप इति श्रुतिः
योजयामि प्रकृत्याहं पुरुषं पञ्चविंशकम्
सृजत्यशेषमेवेदं स्वमूर्तेः प्रकृतेरजः
तवैतत् कथितं सम्यक् स्त्रष्ट्वत्वं परमात्मनः
समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः
दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः
विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः
तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः
आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते
संपूज्यो वन्दनीयो ऽहं ततस्तं पश्य शाश्वतम्
तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः
संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः