तत्र नारायणः श्रीमानास्ते परमपूरुषः
ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात्
सर्वपापहरं शंभोर्निवासः परमेष्ठिनः
ईप्सितांल्लभते कामान् रुद्रस्य दयितो भवेत्
महादेवस्यार्चयित्वा शिवसायुज्यमाप्नुयात्
तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः
संपूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते
कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः
पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः
मृतो ऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात्
प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति
आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम्
पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम्
पूयते पातकैः सर्वैः शक्रेण सह मोदते
उपासते सिद्धसङ्घा ब्रह्मणं पद्मसंभवम्
पूजयित्वा द्विजवरान् ब्रह्माणं संप्रपष्यति
सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात्
पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत्
आराधयामास हरं पञ्चक्षरपरायणः
आराधयामास शिवं तपसा गोवृषध्वजम्
ननर्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम्
दृष्ट्वापि देवमीशानं नृत्यति स्म पुनः पुनः
स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत्
माहात्म्यमेतत् तपसस्त्वादृशो ऽन्यो ऽपि विद्यते
न युक्तं तापसस्यैतत् त्वत्तोप्यत्राधिको ह्यहम्
आस्थाय परमं भावं ननर्त जगतो हरः
दंष्ट्राकरालवदनो ज्वालामाली भयङ्करः
सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम्
ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी
पूर्ववेषं स जग्राह देवी चान्तर्हिताभवत्